|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.153. अध्यायः 153
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सकलसेव्यताप्रयोजकगुणप्रतिपादकेन्द्रमातलिसंवादानुवादः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
केषां देवा महाभागाः सन्नमन्ते महात्मनाम्।
लोकेऽस्मिंस्तनृषीन्सर्वञ्श्रोतुमिच्छामि सत्तम॥ 13-153-1(87302)
भीष्म उवाच। 13-153-2x(7307)
इतिहासमिमं विप्राः कीर्तयन्ति पुराविदः।
अस्मिन्नर्थे महाप्राज्ञास्तं निबोध युधिष्ठिर॥ 13-153-2(87303)
वृत्रं हत्वाऽप्युपावृत्तं त्रिदशानां पुरस्कृतम्।
महेन्द्रमनुसम्प्राप्तं स्तूयमानं महर्षिभिः॥ 13-153-3(87304)
श्रिया परमया युक्तं रथस्थं हरिवाहनम्।
मातलिः प्राञ्जलिर्भूत्वा देवमिन्द्रमुघाच ह॥ 13-153-4(87305)
नमस्कृतानां सर्वेषां भगवंस्त्वं पुरस्कृतः।
येषां लोके नमस्कुर्यात्तान्ब्रवीतु भवान्मम॥ 13-153-5(87306)
तस्य तद्वचनं श्रुत्वा देवराजः शचीपतिः।
यन्तारं परिपृच्छन्तं तमिन्द्रः प्रत्युवाच सः॥ 13-153-6(87307)
धर्मं चार्थं च कामं च येषां चिन्तयतां मतिः।
नाधर्मे वर्तते नित्यं तान्नमस्यामि मातले॥ 13-153-7(87308)
ये रूपगुणसम्पन्नाः प्रमदाहृदयंगमाः।
निवृत्ताः कामभोगेषु तान्नमस्यामि मातले॥ 13-153-8(87309)
स्वेषु भोगेषु सन्तुष्टाः सुवाचो वचनक्षमाः।
अमानकामाश्चार्घार्हास्तान्नमस्यामि मातले॥ 13-153-9(87310)
धनं विद्यास्तथैश्वर्यं येषां न चलयेन्मतिम्।
चलितां ये निगृह्णन्ति तान्नित्यं पूजयाम्यहम्॥ 13-153-10(87311)
इष्टैर्दारैरुपेतानां शुचीनामग्निहोत्रिणाम्।
चतुष्पादकुटुम्बानां मातिले प्रणमाम्यहम्॥ 13-153-11(87312)
महतस्तपसा प्राप्तौ धनस्य विपुलस्य च।
कत्यागस्तस्य न वै कार्यो योऽऽत्मानं नावबुध्यते॥ 13-153-12(87313)
येषामर्थस्तथा कामो धर्ममूलविवर्धितः।
धर्मार्थौ तस्य नियतौ तान्नमस्यामि मातले॥ 13-153-13(87314)
धर्ममूलार्थकामानां ब्राह्मणानां गवामपि॥
पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम्॥ 13-153-14(87315)
ये भुक्त्वा मानुषान्भोगान्पूर्वे वयसि मातले।
तपसा स्वर्गमायान्ति शश्वत्तान्पूजयाम्यहम्॥ 13-153-15(87316)
असंभोगान्नचासक्तान्धर्मनित्याञ्जितेन्द्रियान्।
संन्यस्तानचलप्रख्यान्मनसा पूजयामि तान्॥ 13-153-16(87317)
ज्ञानप्रसन्नविद्यानां निरूढं धर्ममीप्सितम्।
परैः कीर्तितशौचानां मातले तान्नमाम्यहम्'॥ ॥ 13-153-17(87318)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः॥ 153 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|